Tuesday 13 May 2014

आयुर्वेदस्वर्धुनि:-001 (Ayurveda-Swardhuni-001- Algorithm of Pancha Mahabhootas (Post in Sansktit)

।। हरि: ॐ ।।
13-05-2014

आयुर्वेदस्वर्धुनि:-001


भूतेभ्यो हि परं यस्मान्नास्ति चिन्ता चिकित्सिते।


ॐकाररूपाय प्रणवाय वेदवन्द्याय भगवते।
नमस्ते सद्गुरुतत्त्वाय शुभं कुरु हे धन्वन्तरे॥
अथ आयुर्वेदस्वर्धुनि:। स्वर्धुनिस्तु परमशिवजटाविराजिनी महाविष्णुचरणावगाहिनी सद्गुरुमुखोद्वाहिनी शाश्‍वतपवित्रा दिव्यगंगा। अत्र आयुर्वेदस्य पवित्रज्ञानस्य प्रवाहमाना स्वर्धुनिरेव विराजते, अतश्‍चास्या: लेखमालाया: नामकरणं मया ‘आयुर्वेदस्वर्धुनि:’ इत्येव कृतम्। मम दौहित्र्या: नामापि स्वर्धुनि:, एषा च लेखमाला तस्यै एव समर्पिता।

वेदकालादारभ्य अधुनापर्यन्तं भिन्नभिन्नविचारधारानिष्ठै: भिन्नभिन्नप्रणालिमतावलम्बिभि: स्वमन्तव्यसिद्ध्यै तर्क-मीमांसा-आग्रहादय: कृता:, विभिन्नाश्‍चापि सिद्धान्ता: प्रतिपादिता:। परन्तु सर्वसम्मतं एकं निरपवादं सिद्धान्तं वर्तते- अस्या सर्वस्या: चेतनाचेतनसृष्ट्या: सर्जने उपादानकारणं पंचमहाभूता एव इति।

आयुर्वेदेऽपि सुश्रुताचार्येण पंचमहाभूतानां गरिमा यथार्थरूपेण वर्णिता।
सुश्रुत उवाच-
तन्मयान्येव भूतानि तद्गुणान्येव चादिशेत्।
तैश्‍च तल्लक्षण: कृत्स्न: भूतग्रामो व्यजन्यत॥
तस्योपयोगोऽभिहितश्‍चिकित्सां प्रति सर्वदा।
भूतेभ्यो हि परं यस्मान्नास्ति चिन्ता चिकित्सिते॥
यत: अभिहितं ‘तत्संभवद्रव्यसमूह: भूतादिरुक्त:’।
-सुश्रुतसंहितायां शारीरस्थाने 1- 12, 13, 14

मानवस्य शरीरं पांचभौतिकम्। पंचभूतात्मके देहे आहारोऽपि पांचभौतिक एव। पांचभौतिक-आहारादेव पांचभौतिकस्य शरीरस्य पोषणं भवति। मानवशरीरे पंचमहाभूतानि दोषधातुमलस्वरूपेण विद्यन्ते। दोषधातुमलानां पांचभौतिकत्वं आयुर्वेदशास्त्रकारै: सुस्पष्टं कृतम्। आचार्यै: सर्वेषां पांचभौतिकानां शारीरभावानां दोषधातुमलेषु एव अन्तर्भाव: कृत:॥

सुश्रुतेनापि उक्तं-  अस्मिन् शास्त्रे पंचमहाभूतशरीरिसमवाय: पुरुष इत्युच्यते।
 तैतिरीये उपनिषदि ‘आकाशाद्वायु: वायोस्तेज: तेजस: उदकं उदकात् पृथिवी पृथिव्या ओषधय: ओषधिभ्योऽन्नं अन्नात् पुरुष:’ इत्युक्तम्। त्रिदोषाणामपि पांचभौतिकत्वं आयुर्वेदेन कथितम्।

वाग्भटाचार्येण अष्टांगसंग्रहे त्रिदोषाणां पांचभौतिकत्वविषये लिखितम्-
‘वाय्वाकाशधातुभ्यां वायु:। आग्नेयं पित्तम्। अम्भ:पृथिवीभ्यां श्‍लेष्मा।’ - अष्टांगसंग्रहे सूत्रस्थाने 20-1

त्रयोऽपि दोषा: पंचभूतजाता:, किन्तु भूतयोनित्वात् भूताधिक्यत्वात् ‘व्यपदेशस्तु भूयसा’ न्यायेन तेषां विशिष्टभौतिकत्वं वर्णितम्। अत एव वातदोषे वाय्वाकाशभूतयो:, पित्तदोषे अग्निभूतस्य कफदोषे जलपृथ्वीभूतयो: आधिक्यं प्रतिपादितम्।

‘तत्र वायो: वायु: एव योनि: पित्तस्य अग्नि: कफस्य आप:’ इति भानुमतीटीकायां त्रिदोषाणां भूतयोनिविषये स्पष्टीकृतम्। ‘वातपित्तशेष्माण एव देहसंभवहेतव:’ इति सिद्धान्त: सुश्रुताचार्येण सूत्रस्थाने उक्त:।

गच्छत: स्खलनं  क्वापि भवत्येव प्रमादत: । 
हसन्ति दुर्जनास्तत्र समादधति साधव: ॥ 
इत्येव प्रार्थना।

 आदिमातृचण्डिकाया: सद्गुरुश्रीअनिरुद्धस्यश्‍च कृपा मयि सदैव वर्तते। तयो: वरदानात् सर्वेभ्य: शुभं अभिलषामि, स्वस्तिक्षेमं अभिलषामि, श्रेयसायु: अभिलषामि।


अंबज्ञोऽस्मि ।

 

बहुच्छिद्रं परित्यज्य गुणलेशजिघृक्षया
परिगृह्णन्त्वदो विज्ञा ऋजवो दम्भवर्जिता:।
यद्यदुक्तं इह प्रोक्तं प्रमादेन भ्रमेण वा
कृपया हि दयावन्त: सन्त: संशोधयन्तु तत् ॥
 

।। हरि: ॐ ।।